त्वमेव जननी भगवद्गीते,
सुता वयं ते नमोऽस्तुते ! ध्रु.
सुता वयं ते नमोऽस्तुते ! ध्रु.
त्वं छायाऽसि तप्तानाम्
त्वं हि जीवनं तृषितानाम्
कृतार्था वयं सश्रद्धाश्च नमोऽस्तुते! नमोऽस्तुते!१
पयसि त्वं हि शक्तिदायिनी
मनसि त्वं संतोषवर्धिनी
शान्तिं पुष्टिं ददासि मातर् वारं वारं नमोऽस्तुते!२
रत्नानामाकरोऽसि त्वम्
निर्भयमनसां धैर्यं त्वम्
अमितगुणवति, स्फूर्तिदायिनी, नमोऽस्तुते! नमोऽस्तुते!३
रचयिता : श्रीराम बाळकृष्ण आठवले
No comments:
Post a Comment